संतानगणपतिस्तोत्रम्

0
188

नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च । 

सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ 

गुरूदराय गुरवे गोप्ने गुह्यासिताय ते। 

गोप्याय गोपिताशेषभुवनाय चिदात्मने ।। 

विश्वमूलाय भव्याय विश्वसृष्टिकराय ते । 

नमो नमस्ते सत्याय सत्यपूर्णाय शुण्डिने ॥ 

एकदन्ताय शुद्धाय सुमुखाय नमो नमः ।

 प्रपन्नजनपालाय प्रणतार्तिविनाशिने ।।

शरणं भव देवेश संततिं सुदृढां कुरु ।

भविष्यन्ति च ये पुत्रा मत्कुले गणनायक ॥

ते सर्वे तव पूजार्थं निरताः स्युर्वरो मतः । 

पुत्रप्रदमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ॥

॥ इति संतानगणपतिस्तोत्रं सम्पूर्णम् ॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here